ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १॥ तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥ अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्। श्रियं देवीमुपह्वयेश्रीर्मादेवीर्जुषताम् ॥ ३॥ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥ ४॥ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ ५॥ आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः । तस्य फलानि तपसा नुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥ उपैतुमां देवसखः कीर्तिश्च मणिना सह । प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातुमे॥ ७॥ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। अभूतिमसमृद्धिं च सर्वां निर्णुद मेगृहात् ॥ ८॥ गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। ईश्वरीꣳ सर्वभूतानां तामिहोपह्वयेश्रियम् ॥ ९॥ मनसः काममाकूतिं वाचः सत्यमशीमहि । पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥ कर्दमेन प्रजाभूता मयि सम्भव कर्दम । श्रियं वासय मेकुलेमातरं पद्ममालिनीम् ॥ ११॥ आपः सृजन्तुस्निग्धानि चिक्लीत वस मेगृहे। नि च देवीं मातरं श्रियं वासय मेकुले॥ १२॥ आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्। चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १३॥ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्। सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १४॥ तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्। यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥ यः शुचिः प्रयतोभूत्वा जुहुयादाज्य मन्वहम्। श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥ फलश्रुति पद्माननेपद्म ऊरू पद्माक्षी पद्मसम्भवे। त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥ अश्वदायी गोदायी धनदायी महाधने। धनं मेजुषतां देवि सर्वकामांश्च देहि मे॥ पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवेरथम्। प्रजानां भवसि माता आयुष्मन्तं करोतुमाम् ॥ धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । धनमिन्द्रोबृहस्पतिर्वरुणं धनमश्नुते॥ वैनतेय सोमं पिब सोमं पिबतुवृत्रहा । सोमं धनस्य सोमिनोमह्यं ददातुसोमिनः ॥ न क्रोधोन च मात्सर्यं न लोभोनाशुभा मतिः ॥ भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥ वर्षन्तुतेविभावरि दिवोअभ्रस्य विद्युतः । रोहन्तुसर्वबीजान्यव ब्रह्म द्विषोजहि ॥ पद्मप्रियेपद्मिनि पद्महस्तेपद्मालयेपद्मदलायताक्षि । विश्वप्रियेविष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया । लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः । नित्यं सा पद्महस्ता मम वसतुगृहेसर्वमाङ्गल्ययुक्ता ॥ लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम्। दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम्। श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां । त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्देमुकुन्दप्रियाम् ॥ सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती । श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥ वरांकुशौपाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्। बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥ सर्वमङ्गलमाङ्गल्येशिवेसर्वार्थ साधिके । शरण्येत्र्यम्बके देवि नारायणि नमोऽस्तुते॥ सरसिजनिलयेसरोजहस्तेधवलतरांशुक गन्धमाल्यशोभे। भगवति हरिवल्लभेमनोज्ञेत्रिभुवनभूतिकरिप्रसीद मह्यम् ॥ विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्। विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥ महालक्ष्मी च विद्महेविष्णुपत्नी च धीमही । तन्नोलक्ष्मीः प्रचोदयात् ॥ (आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः । ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम् श्रीरेव देवता ॥) variation) (चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम्। चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे॥ variation) श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते। धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । भयशोकमनस्तापा नश्यन्तुमम सर्वदा ॥ श्रियेजात श्रिय आनिर्याय श्रियं वयोजनितृभ्योदधातु। श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥ श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं सन्धत्तं सन्धीयतेप्रजया पशुभिः । य एवं वेद । ॐ महादेव्यैच विद्महेविष्णुपत्नी च धीमहि । तन्नोलक्ष्मीः प्रचोदयात् ॥ ॥ ॐ शान्तिः शान्तिः शान्तिः ॥