[00:12.14] ॐ ॥ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्। [00:13.88] चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १॥ [00:17.75] तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्। [00:22.19] यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥ २॥ [00:28.42] अश्वपूर्वां रथमध्यां हस्तिनादप्रबोधिनीम्। [00:33.69] श्रियं देवीमुपह्वयेश्रीर्मादेवीर्जुषताम् ॥ ३॥ [00:39.33] कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्। [00:45.98] पद्मेस्थितां पद्मवर्णां तामिहोपह्वयेश्रियम् ॥ ४॥ [00:51.65] चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्। [00:58.53] तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे॥ ५॥ [01:04.97] आदित्यवर्णे तपसोऽधिजातोवनस्पतिस्तव वृक्षोऽथ बिल्वः । [01:11.57] तस्य फलानि तपसा नुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ॥ ६॥ [01:18.65] उपैतुमां देवसखः कीर्तिश्च मणिना सह । [01:24.26] प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिमृद्धिं ददातुमे॥ ७॥ [01:29.26] क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम्। [01:33.45] अभूतिमसमृद्धिं च सर्वां निर्णुद मेगृहात् ॥ ८॥ [01:38.76] गंधद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम्। [01:44.22] ईश्वरीꣳ सर्वभूतानां तामिहोपह्वयेश्रियम् ॥ ९॥ [01:49.69] मनसः काममाकूतिं वाचः सत्यमशीमहि । [01:55.33] पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः ॥ १०॥ [02:00.55] कर्दमेन प्रजाभूता मयि सम्भव कर्दम । [02:04.14] श्रियं वासय मेकुलेमातरं पद्ममालिनीम् ॥ ११॥ [02:08.99] आपः सृजन्तुस्निग्धानि चिक्लीत वस मेगृहे। [02:12.83] नि च देवीं मातरं श्रियं वासय मेकुले॥ १२॥ [02:17.82] आर्द्रां पुष्करिणीं पुष्टिं पिङ्गलां पद्ममालिनीम्। [02:21.84] चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १३॥ [02:26.70] आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्। [02:31.08] सूर्यां हिरण्मयीं लक्ष्मीं जातवेदोम आवह ॥ १४॥ [02:35.87] तां म आवह जातवेदोलक्ष्मीमनपगामिनीम्। [02:41.92] यस्यां हिरण्यं प्रभूतं गावोदास्योऽश्वान्विन्देयं पुरुषानहम् ॥ १५॥ [02:48.33] यः शुचिः प्रयतोभूत्वा जुहुयादाज्य मन्वहम्। [02:55.82] श्रियः पञ्चदशर्चं च श्रीकामः सततं जपेत् ॥ १६॥ [02:58.61] फलश्रुति [03:00.79] पद्माननेपद्म ऊरू पद्माक्षी पद्मसम्भवे। [03:02.71] त्वं मां भजस्व पद्माक्षी येन सौख्यं लभाम्यहम् ॥ [03:04.93] अश्वदायी गोदायी धनदायी महाधने। [03:06.27] धनं मेजुषतां देवि सर्वकामांश्च देहि मे॥ [03:09.45] पुत्रपौत्र धनं धान्यं हस्त्यश्वादिगवेरथम्। [03:10.62] प्रजानां भवसि माता आयुष्मन्तं करोतुमाम् ॥ [03:11.62] धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः । [03:12.88] धनमिन्द्रोबृहस्पतिर्वरुणं धनमश्नुते॥ [03:13.79] वैनतेय सोमं पिब सोमं पिबतुवृत्रहा । [03:14.50] सोमं धनस्य सोमिनोमह्यं ददातुसोमिनः ॥ [03:15.63] न क्रोधोन च मात्सर्यं न लोभोनाशुभा मतिः ॥ [03:16.96] भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत्सदा ॥ [03:28.46] वर्षन्तुतेविभावरि दिवोअभ्रस्य विद्युतः । [03:29.49] रोहन्तुसर्वबीजान्यव ब्रह्म द्विषोजहि ॥ [03:29.62] पद्मप्रियेपद्मिनि पद्महस्तेपद्मालयेपद्मदलायताक्षि । [03:29.88] विश्वप्रियेविष्णुमनोऽनुकूले त्वत्पादपद्मं मयि सन्निधत्स्व ॥ [03:30.08] या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी । [03:30.26] गम्भीरा वर्तनाभिः स्तनभर नमिता शुभ्र वस्त्रोत्तरीया । [03:30.43] लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगण खचितैस्स्नापिता हेमकुम्भैः । [03:30.53] नित्यं सा पद्महस्ता मम वसतुगृहेसर्वमाङ्गल्ययुक्ता ॥ [03:30.84] लक्ष्मीं क्षीरसमुद्र राजतनयां श्रीरंगधामेश्वरीम्। [03:31.07] दासीभूतसमस्त देव वनितां लोकैक दीपांकुराम्। [03:31.25] श्रीमन्मन्दकटाक्षलब्ध विभव ब्रह्मेन्द्रगङ्गाधरां । [03:31.49] त्वां त्रैलोक्य कुटुम्बिनीं सरसिजां वन्देमुकुन्दप्रियाम् ॥ [03:31.58] सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीस्सरस्वती । [03:31.73] श्रीलक्ष्मीर्वरलक्ष्मीश्च प्रसन्ना मम सर्वदा ॥ [03:32.06] वरांकुशौपाशमभीतिमुद्रां करैर्वहन्तीं कमलासनस्थाम्। [03:32.10] बालार्क कोटि प्रतिभां त्रिणेत्रां भजेहमाद्यां जगदीश्वरीं ताम् ॥ [03:32.37] सर्वमङ्गलमाङ्गल्येशिवेसर्वार्थ साधिके । [03:32.58] शरण्येत्र्यम्बके देवि नारायणि नमोऽस्तुते॥ [03:32.91] सरसिजनिलयेसरोजहस्तेधवलतरांशुक गन्धमाल्यशोभे। [03:33.17] भगवति हरिवल्लभेमनोज्ञेत्रिभुवनभूतिकरिप्रसीद मह्यम् ॥ [03:33.30] विष्णुपत्नीं क्षमां देवीं माधवीं माधवप्रियाम्। [03:33.55] विष्णोः प्रियसखींम् देवीं नमाम्यच्युतवल्लभाम् ॥ [03:33.74] महालक्ष्मी च विद्महेविष्णुपत्नी च धीमही । [03:33.85] तन्नोलक्ष्मीः प्रचोदयात् ॥ [03:34.17] (आनन्दः कर्दमः श्रीदश्चिक्लीत इति विश्रुताः । [03:34.37] ऋषयः श्रियः पुत्राश्च श्रीर्देवीर्देवता मताः (स्वयम् [03:34.44] श्रीरेव देवता ॥) variation) [03:34.67] (चन्द्रभां लक्ष्मीमीशानाम् सुर्यभां श्रियमीश्वरीम्। [03:34.87] चन्द्र सूर्यग्नि सर्वाभाम् श्रीमहालक्ष्मीमुपास्महे॥ variation) [03:35.08] श्रीवर्चस्यमायुष्यमारोग्यमाविधात् पवमानं महीयते। [03:35.23] धनं धान्यं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः ॥ [03:35.43] ऋणरोगादिदारिद्र्यपापक्षुदपमृत्यवः । [03:35.68] भयशोकमनस्तापा नश्यन्तुमम सर्वदा ॥ [03:35.76] श्रियेजात श्रिय आनिर्याय श्रियं वयोजनितृभ्योदधातु। [03:36.02] श्रियं वसाना अमृतत्वमायन् भजंति सद्यः सविता विदध्यून् ॥ [03:36.27] श्रिय एवैनं तच्छ्रियामादधाति । सन्ततमृचा वषट्कृत्यं [03:36.42] सन्धत्तं सन्धीयतेप्रजया पशुभिः । य एवं वेद । [03:36.76] ॐ महादेव्यैच विद्महेविष्णुपत्नी च धीमहि । [03:36.80] तन्नोलक्ष्मीः प्रचोदयात् ॥ [03:37.07] ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ [03:37.23]